Dr. Amit Kumar

उच्च शिक्षा के प्रिय आकांक्षी,

भारतवर्षान्तर्गत हरियाणाराज्यस्य गुरुग्रामनगरे  अवस्थित महाविद्यालयोऽयं स्थानीय बुद्धिजीविभिः संस्कृतस्य महत्वं स्वीकुर्वद्‌भिः 2018 ई. तमे वर्षे स्थापितः। अत्र साहित्य-व्याकरण-वेद-धर्मशास्त्र कर्मकाण्डादीनि शास्त्राणि सुयोग्य प्राध्यापकैः पाठ्यन्तेस्म। अत्रत्याः छात्राः सुयोग्याः अभवन्‌। अत्रात्या छात्राः भिन्न, भिन्न क्षेत्रेषु विद्यालयेषु महाविद्यालयेषु च अध्यापयन्ति एवञ्च अन्याः क्षेत्रेऽपि कार्यरताः सन्ति।
 
पुरा यथा मनस्विभिश्चिन्तकैः शान्तवातावरणे मन्त्राणामनुशीलनं विहितं तथैवाधुनाऽपि रमणीय क्षेत्रे  शान्त वातावरणे स्थापितोऽयं महाविद्यालयः सर्वेषां बुद्धिजीविनां शिक्षकाणां छात्राणाञ्च चित्तमाकर्षयन्ति नात्र सन्देहलेशोऽपि। अत्र प्राज्ञातः शास्त्री प्रतिष्ठा पर्यन्तमध्यापनं भवति। महाविद्यालयस्य विपुल विषय सम्बद्ध पुस्तकानां पुस्तकालयः सर्वेषां ज्ञानार्जनाय सहायको विद्यते। अत्र कम्प्यूटर प्रशिक्षण सौविध्यमुपलभ्यते। विस्तृतं रमणीयं क्रीड़ा क्षेत्रं विद्यते। अत्र भव्यानि श्वेत वर्णा कीर्णानि भवनानि सुन्दरः सुसज्जितः विपुल पुस्तक भण्डागारः, सुसज्जित कम्प्यूटर कक्षः, वर्ग कक्षः, हरितं भव्यं क्रीड़ा क्षेत्रेऽपि विद्यते। येना कर्षितो भूत्वा छात्राः पठितुं ज्ञानार्जनं कर्त्तुमागच्छन्ति।
 
यद्यपि भौतिक चाकचिक्य प्रभावित समयोऽयं नव्यस्य विज्ञानस्यैव विद्यते, परञ्च प्राचीन ज्ञानस्य (प्राच्य विद्यायाः) संयोगेनैव विज्ञानस्य महत्वं संवर्धते।
 
देशोऽयमास्तिकः अत्र प्राचीन ज्ञान-नव्य ज्ञानयोः अथवा प्राच्य-नव्य विद्यायाः संयुक्त पाठे नैव सर्वेषां कल्याणं भवितुमर्हति, तथा च ‘सर्वेभवन्तु सुखिनः सर्वे सन्तु निरामयाः’ इति कथनं चरितार्थम्‌ भविष्यति।
 
अतएव ज्ञानोन्मुखाः मनीषिणः प्राच्य-शास्त्राणां महत्वमवगम्य अत्रत्या जनाः संस्कृत महाविद्यालयस्य स्थापनां चक्रुः।
 
अस्तु सुरम्य रमणीय क्षेत्रे अवस्थितोऽयं महाविद्यालयः दिनानु दिनं स्वकीय लक्ष्यमाप्तु अग्रेसरतीति प्रतिभाति। अयं महाविद्यालयः दिनानुदिनं विकासाय कृत संकल्पो विद्यते। अत्रत्याः छात्राः अतीवानुशासिताः सन्तः मनोयोगेन अध्ययनरताः सन्ति।
 
आगम्यतां महाविद्यालयस्यास्य विकासाय वयं दृढ़ प्रतिज्ञां कुर्याम्‌ येन प्राच्य शिक्षायाः प्रचारः प्रसारश्च सुलभा भवेत्‌ इतिशम्‌।
 
डॉ. अमित कुमार
प्रधानाचार्य